वांछित मन्त्र चुनें

ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व१॒॑मिन्द्र॑मे॒व । स्वसा॑रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वन्ति॑ च॒ शव॑सा व॒र्धय॑न्ति च ॥

अंग्रेज़ी लिप्यंतरण

evā mahān bṛhaddivo atharvāvocat svāṁ tanvam indram eva | svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca ||

पद पाठ

ए॒व । म॒हान् । बृ॒हत्ऽदि॑वः । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व॑म् । इन्द्र॑म् । ए॒व । स्वसा॑रः । मा॒त॒रिभ्व॑रीः । अ॒रि॒प्राः । हि॒न्वन्ति॑ । च॒ । शव॑सा । व॒र्धय॑न्ति च ॥ १०.१२०.९

ऋग्वेद » मण्डल:10» सूक्त:120» मन्त्र:9 | अष्टक:8» अध्याय:7» वर्ग:2» मन्त्र:4 | मण्डल:10» अनुवाक:10» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एव) इस प्रकार (महान् बृहद्दिवः) महान् विद्यावान् (अथर्वा) स्थिर योगी (स्वां तन्वम्) अपनी विस्तृत स्तुति प्रार्थना को (इन्द्रम्-एव) इन्द्र-ऐश्वर्यवान् परमात्मा के प्रति ही (अवोचत्) बोलता है (स्वसारः) स्वयं सरणशील होती हुयी (मातरिभ्वरीः) जगन्निर्माता परमात्मा में वर्तमान होती हुयी (अरिप्राः) निष्पाप स्तुतिधाराएँ (हिन्वन्ति) परमात्मा को प्रसन्न करती हैं तथा (च) और (शवसा) बल से-प्रभाव से (वर्धयन्ति) स्तुति करनेवाले के अन्दर परमात्मा को साक्षात् कराती हैं ॥९॥
भावार्थभाषाः - महान् विद्वान् अपनी स्तुति प्रार्थना को जब परमात्मा के प्रति अर्पित करता है, तो निष्पाप स्तुतियाँ परमात्मा में आश्रय लेकर उसे प्रभावित करती हैं और स्तुति करनेवाले के अन्दर साक्षात् कराती हैं ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एव महान् बृहद्दिवः-अथर्वा) एवं महाविद्यावान् स्थिरो योगी (स्वां तन्वम्-इन्द्रम्-एव-अवोचत्) स्वकीयां विस्तृतां स्तुतिं प्रार्थनाम्-इन्द्रं-परमात्मानं प्रत्येव कथयति (स्वसारः-मातरिभ्वरीः-अरिप्राः) स्वयं सरन्त्यस्तथा मातरि जगन्निर्मातरि तस्मिन् परमात्मनि भवन्त्यः-‘मातरि शब्दपूर्वकाद् भूधातोः’ “अन्येभ्योऽपि दृश्यन्ते” [अष्टा० ३।२।७५] इति वनिप् प्रत्ययः “वनो र च” [अष्टा० ४।१।७] इति ङीप्-रेफश्च ‘निष्पापाः’ स्तुतिधाराः-तमिन्द्रं परमात्मानं (हिन्वन्ति च शवसा-वर्धयन्ति च) प्रीणयन्ति “हिन्वन्ति प्रीणयन्ति” [ऋ० १।१४४।५ दयानन्दः] ‘हिवि प्रीणनार्थः’ [भ्वादि०] तथा स्वप्रभावेण वर्धयन्ति स्तोतरि साक्षात् कारयन्ति च ॥९॥